shukra kavacham – शुक्र कवचम्
शुक्र कवचम् ध्यानम् मृणालकुंदेंदुपयोजसुप्रभंपीतांबरं प्रसृतमक्षमालिनम् ।समस्तशास्त्रार्थविधिं महांतंध्यायेत्कविं वांछितमर्थसिद्धये ॥ 1 ॥ ॥ अथ शुक्रकवचम् ॥ शिरो मे भार्गवः पातु भालं पातु ग्रहाधिपः ।नेत्रे दैत्यगुरुः पातु श्रोत्रे मे चंदनद्युतिः ॥ 2 ॥ पातु मे नासिकां काव्यो वदनं दैत्यवंदितः ।वचनं चोशनाः पातु कंठं श्रीकंठभक्तिमान् ॥ 3 ॥ भुजौ तेजोनिधिः पातु कुक्षिं पातु मनोव्रजः ।नाभिं भृगुसुतः पातु मध्यं […]