देवी अथर्वशीर्ष स्तोत्रम
(Devi atharvashirshal Stotram)
। अथ श्री देव्यथर्वशीर्षम ।
ॐ सर्वे वै देवा देवीमुपतस्थुः
कासि त्वं महादेवीति ।।1।।
साब्रवीत्-
अहं ब्रह्म्स्वरुपिणी ।
मत्तः प्रकृति
पुरुशात्मकं जगत् ।
शून्यं चाशून्यं च ।।2।।
अहमानन्दानानन्दौ ।
अहं विज्ञानाविज्ञाने ।
अहं ब्रह्माब्रह्मणी वेदितव्ये ।
अहं पञ्च्भूतान्यपञ्चभूतानि ।
अहमखिलं जगत् ।।3।।
वेदोऽहमवेदोऽहम् ।
विद्याहमविद्याहम् ।
अजाहमनजाहम् ।
अधश्चोर्ध्वं च तिर्यक्चाहम् ।।4।।
अहं रुद्रेभिर्वसुभिश्चरामि ।
अहमादित्यैरुत विश्वदेवैः ।
अहं मित्रावरुणावुभौ बिभर्मि ।
अहमिन्द्राग्नी अहमश्विनावुभौ ।। 5।।
अहं सोमं तवष्टारं पूषणं भगं दधामि ।
अहं विष्णुमुरुक्रमं ब्रह्माणमुत
प्रजापतिं दधामि ।।6।।
अहं दधामि द्रविणं हविष्मते
सुप्राव्ये यजमानाय सुन्वते ।
अहं राष्ट्री सङ्ग्मनी वसूनां
चिकितुषी प्रथमा यज्ञियानाम् ।
अहं सुवे पितरमस्य मूर्धन्मम
योनिरप्स्वन्तः समुद्रे ।
य एवं वेद ।
स दैवीं संपदमाप्नोति ।।7।।
ते देवा अब्रुवन्-
नमो देव्यै महादेव्यै
शिवायै सततं नमः ।
नमः प्रकृत्यै भद्रायै नियताः
प्रणताः स्म ताम् ।।8।।
तामग्निवर्णां तपसा ज्वलन्तीं
वैरोचनीं कर्मफ़लेषु जुष्टाम् ।
दुर्गां देवीं शरणं
प्रपद्यामहेऽसुरान्नायित्र्यै ते नमः ।।9।।
देवीं वाचमजनयन्त देवास्तां
विश्वरूपाः पशवो वदन्ति ।
सा नो मन्द्रेषमूर्जं दुहाना
धेनुर्वागस्मानुप सुष्टुतैतु ।।10।।
Devi atharvashirshal
कालरात्रीं ब्रह्मस्तुतां
वैष्णवीं स्कन्दमातरम् ।
सरस्वतीमदितिं दक्षदुहितरं
नमामः पावनां शिवाम् ।।11।।
महालक्ष्म्यै च विद्महे सर्वशक्त्यै च धीमहि ।
तन्नो देवी प्रचोदयात् ।।12।।
अदितिर्ह्यजनिष्ट दक्ष या दुहिता तव ।
तां देवा अन्वाजयन्त
भद्रा अमृतबन्धवः ।।13।।
कामो योनिः कमला
वज्रपाणिर्गुहा हसा
मातरिश्वाभमिन्द्रः ।
पुनर्गुहा सकला मायया च
पुरूच्यैषा विश्वमातादिविद्योम् ।।14।।
एषाऽऽत्मशक्तिः ।
एषा विश्वमोहिनी ।
पाशाङ्कुशधनुर्बाणधरा ।
एषा श्रीमहाविद्या ।
य एवं वेद स शोकं तरति ।।15।।
नमस्ते अस्तु भगवति
मातरस्मान् पाहि सर्वतः ।।16।।
सैपाष्टाै वसवः ।
सैषैकादश रुद्राः ।
सैषा द्वादशादित्याः ।
सैषा विश्वेदेवाः सोमपा असोमपाश्च ।
सैषा यातुधाना असुरा
रक्षांसि पिशाचा यक्षाः सिद्धाः ।
- सैषा सत्त्रजस्तमान्सि ।
- सैषा ब्रह्मविष्णुरुद्ररुपिणी ।
सैषा प्रजापतीन्द्रमनवः ।
सैषा ग्रहनक्षत्रज्योतींषि ।
कलाकाष्ठादिकालरूपिणी ।
तामहं प्रणौमि नित्यम् ।।
पपापहारिणीं देवीं
भक्तिमुक्तिप्रदायिनीम् ।
अनन्तां विजयां शुद्धां
शरण्यां शिवदां शिवाम् ।।17।।
वियदीकारसंयुक्तं
वीतिहोत्रसमन्वितम्।
अर्धेन्दुलसितं देव्या बीजं
सर्वार्थसाधकम् ।।18।।
एवमेकाक्षरं ब्रह्म यतयः शुद्धचेतसः ।
ध्यायन्ति परमानन्दमया ज्ञानाम्बुराशयः ।।19।।
वाङ्माया ब्रह्मसूस्तस्मात् षष्ठं वक्त्रसमन्वितम् ।
सूर्योऽवाम
श्रोत्रबिन्दुसन्युक्तष्टा
त्तृतीयकः ।
नारायणेन सम्मिश्रो
वायुश्चाधरयुक् ततः ।
विच्चे नवार्णकोऽर्णः
स्यान्महदानन्ददायकः ।।20।।
Devi atharvashirshal
ह्रित्पुण्डरीकमध्यस्थां
प्रातःसूर्यसमप्रभाम् ।
पाशाङ्कुशधरां सौम्यां
वरदाभयहस्तकाम् ।
त्रिनेत्रां रक्तवसनां
भक्तकामदुघां भजे ।।21।।
नमामि त्वां महादेवीं
महाभयविनाशिनीम् ।
महादुर्गप्रशमनीं
महाकारुन्यरूपिणीम् ।।22।।
यस्याः स्वरूपं ब्रह्मादयो न
जानन्ति तस्मादुच्यते अज्ञेया ।
यस्या अन्तो न लभ्यते
तस्मादुच्यते अनन्ता ।
यस्या लक्ष्यं नोपलभ्यते
तस्मादुच्यते अलक्ष्या ।
यस्या जननं नोपलभ्यते
तस्मादुच्यते अजा ।
एकैव सर्वत्र वर्तते
तस्मादुच्यते एका ।
एकैव विश्वरूपिणी
तस्मादुच्यते नैका ।
अत एवोच्यते
अज्ञेयानन्तालक्ष्याजैका नैकेति ।।23।।
मन्त्राणां मातृका देवी
शब्दानां ज्ञानरूपिणी ।
ज्ञानानां चिन्मयातीता
शून्यानां शून्यसाक्षिणी ।
यस्याः परतरं नास्ति सैषा
दुर्गा प्रकीर्तिता ।।24।।
तां दुर्गा दुर्गमां देवीं
दुराचारविघातिनीम् ।
नमामि भवभीतोऽहं
संसारार्णवतारिणीम् ।।25।।
Devi atharvashirshal
इदमर्थर्वशीर्षं योऽधीते स
पन्चाथर्वशीर्षजपफलमाप्नोति।
इदमथर्वशीर्षमज्ञात्वा योऽर्चां
स्थापयति-शतलक्षं
प्रजप्त्वापि सोऽर्चासिद्धिं
न विन्दति।
शतमष्टोत्तरं चास्य
पुरश्चर्याविधिः स्मृतः।
दशवारं पठेद् यस्तु
सद्यः पापैः प्रमुच्यते ।
महादुर्गाणि तरति
महादेव्याः प्रसादतः ।।26।।
सायमधीयानो दिवसकृतं
पापं नाश्यति ।
प्रातरधीयानो रात्रिकृतं
पापं नाश्यति ।
सायं प्रातः प्रयुञ्जानो
अपापो भवति ।
निशीथे तुरीय संध्यायां
जप्त्वा वाक्सिद्धिर्भवति।
नूतनायां प्रतिमायां जप्त्वा
देवतासांनिध्यं भवति ।
प्राणप्रतिष्ठायां जप्त्वा प्राणानां
प्रतिष्ठा भवति ।
भौमाश्विन्यां महादेवीसंनिधौ
जप्त्वा महामृत्युं तरति ।
स महामृत्युं तरति य एवं वेद ।
इत्युपनिषत् ।।