Shiv 2BManas 2BPooja

Shiv Manas Pooja Stotram । श्री शिवमानस पूजा स्तोत्रं

 

   श्री शिवमानस पूजा स्तोत्रं

श्री शिवमानस पूजा स्तोत्रं

 

रत्नैः कल्पित मासनं हिमजलैः स्नानं च दिव्यांबरं

 

नानारत्नविभूषितं मृगमदामोदांकितं चंदनम् ।

 

जाजीचंपकबिल्वपत्ररचितं पुष्पं च धूपं तथा दीपं

 

देवदयानिधे पशुपते हृत्कल्पितं गृह्यताम् ॥ १ ॥
 

 

सौवर्णे मणिखंडरत्नरचिते पात्रे घृतं पायसं भक्ष्यं

 

पंचविधं पयोदधियुतं रंभाफलं स्वादुदम् ।

 

शाकानामयुतं जलं रुचिकरं कर्पूर खंडोज्ज्वलं

 

तांबूलं मनसा मया विरचितं भक्त्या प्रभोस्वीकुरु ॥ २ ॥
 

 

छत्रं चामरयोर्युगं व्यजनकं चादर्शकं निर्मलं

 

वीणाभेरि मृदंग काहलकला गीतं च नृत्यं तधा ।

 

साष्टांगं प्रणतिः स्तुति र्बहुविधा एतत्समस्तं

 

मया संकल्पेन समर्पितं तव विभो पूजां गृहाण प्रभो ॥ ३ ॥
 

 

आत्मा त्वं गिरिजा मति स्सहचराः प्राणाश्शरीरं गृहं

 

पूजते विषयोपभोगरचना निद्रा समाधि स्थितिः ।

 

संचारः पदयोः प्रदक्षिणविधिः स्तोत्राणि सर्वागिरो

 

यद्यत्कर्म करोमि तत्तदखिलं शम्भोतवाराधनम् ॥ ४ ॥
 

 

करचरणकृतं वा कर्म वाक्कायजं वा

 

श्रवणनयनजं वा मानसं वापराधम् ।

 

विहितमविहितं वा सर्वमेतत् क्षमस्व

 

शिवशिव करुणाब्धे श्रीमहादेव शम्भो ॥ ५ ॥
 
:: इति श्री शिवमानस पूजा स्तोत्रं संपूर्णम् ::
 
        ***********
 

Leave a Comment

error: