Mundamala Tantrokta Mahavidya Stotram महाविद्यास्तोत्र का पाठ करने से तंत्र मंत्र , प्रेत बाधा से निवारण के साथ सर्व संकट का नाश स्वतः ही हो जाता है। इसका नित्य प्रति दिन जप करने से जातक के सर्व कामना सिद्ध हो जाते है।
Mundamala Tantrokta Mahavidya Stotram
महाविद्यामन्त्रः–
हूँ श्रीं ह्रीं वज्रवैरोचनीये हुँ हुँ फट् स्वाहा ऐं।
महाविद्याध्यानम्
चतुर्भुजां महादेवीं नागयज्ञोपवीतिनीम् ।
महाभीमां करालास्यां सिद्धिविद्याधरैर्युताम् ।।
मुण्डमालावलीकीर्णां मुक्तकेशीं स्मिताननाम् ।
एवं ध्यायेन्महादेवीं सर्वकामार्थसिद्धये ।।

शिव उवाच-
Mundamala Tantrokta Mahavidya Stotram
दुर्लभं तारिणीमार्ग दुर्लभं तारिणीपदम् ।
मन्त्रार्थं मन्त्रचैतन्यं दुर्लभं शवसाधनम् ॥
Read more : Das mahavidya Stotra – श्रीमुण्ड-माला-तन्त्रे एकादश-पटले महाविद्या-स्तोत्रम्
श्मशान-साधनं योनिसाधनं ब्रह्मसाधनम् ।
क्रियासाधनकं भक्तिसाधनं मुक्तिसाधनम् ।
तव प्रसादाद् देवेशि ! सर्वाः सिध्यन्ति सिद्धयः ॥
नमस्ते चण्डिके चण्डि ! चण्ड-मुण्ड-विनाशिनि ! ।
नमस्ते कालिके ! कालमहाभयविनाशिनि ! ।।
शिवे रक्ष जगद्धात्रि! प्रसीद हरवल्लभे ! ।
प्रणमामि जगद्धात्रीं जगत्पालनकारिणीम् ।।
जगत्- क्षोभकरीं विद्यां जगत्सृष्टि – विधायिनीम् ।
करालां विकटां घोरां मुण्डमाला-विभूषिताम् ।।
हरार्चितां हराराध्यां नमामि हरवल्लभाम् ।
गौरीं गुरुप्रियां गौरवर्णालङ्कार भूषिताम् ।
हरिप्रियां महामायां नमामि ब्रह्मपूजिताम् ।।
सिद्धां सिद्धेश्वरी सिद्ध-विद्याधरगणैर्युताम् ।
मन्त्रसिद्धिप्रदां योनिसिद्धिदां लिङ्गशोभिताम् ।
प्रणमामि महामायां दुर्गा दुर्गति-नाशिनीम् ।।
उग्रामुग्रमयीमुग्र – तारामुग्रगणैर्युताम् ।
नीलां नीलघनश्यामां नमामि नीलसुन्दरीम् ।।
श्यामाङ्गीं श्यामघटितां श्यामवर्णविभूषिताम् ।
प्रणमामि जगद्धात्रीं गौरीं सर्वार्थसाधिनीम् ।।
विश्वेश्वरीं महाघोरां विकटां घोरनादिनीम् ।
आद्यामाद्या – गुरोराद्यामाद्यनाथ – प्रपूजिताम् ॥
Mundamala Tantrokta Mahavidya Stotram
श्रीदुर्गा धनदामन्नपूर्णा पद्मां सुरेश्वरीम् ।
प्रणमामि जगद्धात्री चन्द्रशेखर – वल्लभाम् ।।
त्रिपुरासुन्दरीं बालामबलागण भूषिताम् ।
शिवदूतीं शिवाराध्यां शिवध्येयां सनातनीम् ।।
सुन्दरीं तारिणीं सर्वशिवागण – विभूषिताम् ।
नारायणीं विष्णुपूज्यां ब्रह्म-विष्णु- हरप्रियाम् ।।
सर्वसिद्धिप्रदां नित्यामनित्यगुणवर्जिताम् ।
सगुणां निर्गुणां ध्येयामर्चितां सर्वसिद्धिदाम् ॥
Mundamala Tantrokta Mahavidya Stotram
दिव्यां सिद्धिप्रदां विद्यां महाविद्यां महेश्वरीम् ।
महेशभक्तां माहेशीं महाकाल – प्रपूजिताम् ।
प्रणमामि जगद्धात्रीं शुम्भासुर – विमर्दिनीम् ।।
रक्तप्रियां रक्तवर्णा रक्तबीज – विमर्दिनीम् ।
भैरवीं भुवनां देवीं लोलजिह्वां सुरेश्वरीम् ।।
चतुर्भुजां दशभुजामष्टादशभुजां शुभाम् ।
त्रिपुरेशीं विश्वनाथप्रियां विश्वेश्वरीं शिवाम् ॥
अट्टहासामट्टहासप्रियां धूम्रविनाशिनीम् ।
कमलां छिन्नभालां च मातङ्गीं सुरसुन्दरीम् ॥
षोडशीं विजयां भीमां धूम्रां च बगलामुखीम् ।
सर्वसिद्धिप्रदां सर्व-विद्यामन्त्र – विशोधिनीम् ।
प्रणमामि जगत्तारां सारां च मन्त्रसिद्धये ॥
इत्येवं च वरारोहं स्तोत्रं सिद्धिकरं परम् ।
पठित्वा मोक्षमाप्नोति सत्यं वै गिरिनन्दिनि ! ॥
कुजवारे चतुर्दश्याममायां जीववासरे ।
शुक्रे निशिगते स्तोत्रं पठित्वा मोक्षमाप्नुयात् ।
त्रिपक्षे मन्त्रसिद्धिः स्यात् स्तोत्रपाठाब्द्धि शङ्करि ! ॥
चतुर्दश्यां निशाभागे शनि-भौमदिने तथा ।
निशामुखे पठेत् स्तोत्रं मन्त्रसिद्धिमवाप्नुयात् ।।
केवलं स्तोत्रपाठाद्धि मन्त्रसिद्धिरनुत्तमा ।
जागर्ति सततं चण्डी स्तोत्रपाठाद् भुजङ्गिनी ॥
॥ इति मुण्डमालातन्त्रे महाविद्यास्तोत्रं सम्पूर्णम् ॥
Mundamala Tantrokta Mahavidya Stotram
